वांछित मन्त्र चुनें

त्वं नो॑ अग्ने अध॒रादुद॑क्ता॒त्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त् । प्रति॒ ते ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहन्तु ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ no agne adharād udaktāt tvam paścād uta rakṣā purastāt | prati te te ajarāsas tapiṣṭhā aghaśaṁsaṁ śośucato dahantu ||

पद पाठ

त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ध॒रात् । उद॑क्तात् । त्वम् । प॒श्चात् । उ॒त । र॒क्ष॒ । पु॒रस्ता॑त् । प्रति॑ । ते । ते॒ । अ॒जरा॑सः । तपि॑ष्ठाः । अ॒घऽशं॑सम् । शोशु॑चतः । द॒ह॒न्तु॒ ॥ १०.८७.२०

ऋग्वेद » मण्डल:10» सूक्त:87» मन्त्र:20 | अष्टक:8» अध्याय:4» वर्ग:8» मन्त्र:5 | मण्डल:10» अनुवाक:7» मन्त्र:20


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे तेजस्वी नायक ! (त्वं नः) तू हमें (अधरात्) दक्षिण दिशा से (उदक्तात्) उत्तरदिशा से (त्वं) तू (पश्चात्) पश्चिमदिशा से (उत) और (पुरस्तात्) पूर्व दिशा से (रक्ष) सुरक्षित कर (ते) तेरे (ते-अजरासः) वे जीर्णतारहित स्थिर (तपिष्ठाः) अतितापक (शोशुचतः) देदीप्यमान प्रहार (अघशंसं दहन्तु) पापप्रशंसक पापकारी शत्रु को दग्ध करें ॥२०॥
भावार्थभाषाः - नायक सब दिशाओं से रक्षा करनेवाला अपने ज्वलन्त प्रहारों से शत्रु को दग्ध करनेवाला होना चाहिए ॥२०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे तेजस्विन् नायक ! (त्वं नः) त्वमस्मान् (अधरात्) दक्षिणदिक्तः (उदक्तात्) उत्तरदिक्तः (त्वं पश्चात्) त्वं पश्चिमदिक्तः (उत) च (परस्तात्) पूर्वदिक्तः (रक्ष) पाहि (ते) तव (ते-अजरासः-तपिष्ठाः) ते खलु जीर्णतारहिताः स्थिरा अतितापकाः (शोशुचतः) देदीप्यमानाः प्रहाराः (अघशंसं दहन्तु) पापप्रशंसकं पापकारिणं शत्रुं भस्मीकुर्वन्तु ॥२०॥